प्रांशुपालानाम् विषयः

श्रीअहोबिलमठ

प्रांशुपालानाम् विषयः

Sri Dr. S. Varadagopalakrishnan, Mimamsa Siromani, B.Ed., Ph.D., M.A (Sanskrit)

अस्माकं कलाशाला 1942 तमे वर्षे जून्मासे जनकवल्ली नायिका समेत श्रीकरुणाकरस्वामी एवं श्रीरामचन्द्रमूर्तेः वासभूते द्वयं विलैन्द तिरुप्पति इति प्रसिद्ध मधुरान्तक क्षेत्रे, अस्माकं श्रीमदहोबिलमठे 42पट्टे मूर्धाभिषिक्तिनां श्रीमते श्रीलक्ष्मीनृसिंह दिव्यपादुका सेवक श्रीवण्शठकोप श्रीश्रीरङ्गशठकोप इति नाम्ना जगत् विख्यातमूर्तिभिः शुभेन मनसा ध्यातं इति विचिन्त्य स्थापिता। प्रप्रथमं आचार्याणां सकाशे अधीतैः सुप्रसिद्धविद्वांसैः इयं कलाशाला प्रारब्धा। तदनन्तरं देवालयस्य समीपे नूतन भवननिर्माणं कृत्वा इयताकालेन आचार्याणां परिपूर्णानुग्रहेण प्रचलन् वर्तते।वर्धते च।।

इयं कलाशाला त्रिभिः विभागैः (व्याकरण, न्याय, विशिष्टाद्वैत वेदान्त) मद्रपुरी विश्वविद्यालय प्रमाणपुरस्सरं प्रचलति। एवं द्राविड, आङ्गल, सङ्गनक यन्त्र, पाठः अपि पाठ्यक्रमे वर्तते। अस्यां कलाशालायां अधीताः बहवः छात्राः प्रसिद्ध पण्डिताः आसन्, वर्तन्ते च।

अस्माकं कलाशालायाः विद्यार्थिनां कृते आवास भोजन व्यवस्था निश्शुल्कतया श्रीमदहोबिलमठीयाचार्याणां अनुग्रहेण प्रचलति। यद्यपि व्ययः अधिकः भवति। तथापि श्रीदेशिक संप्रदाय प्रवर्तनाय, तदुद्देशेन श्रीमदहोबिलमठीय आचार्याणां कृपया प्रचलति।।